संकट नाशन गणेश स्तोत्रम् Sankat Nashan Ganesh Stotram

M Prajapat
0

संकट नाशन गणेश स्तोत्रम् Sankat Nashan Ganesh Stotram

।। संकटनाशनगणेशस्तोत्रम् ।।

ॐ श्री गणेशाय नमः
नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्। 
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये॥1॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। 
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम्॥2॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च। 
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम्। 
एकादशं गणपतिं द्वादशं तु गजाननम्॥4॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः। 
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्। 
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्॥6॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्। 
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्। 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः॥8॥

।। इति श्री नारदपुराणे संकटनाशनम गणेश स्तोत्रम सम्पूर्णम ।।

Singer: Anuradha Paudwal

एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!