दशमयी बाला त्रिपुर सुन्दरी स्तोत्रम् (Dashmayi Bala Tripur Sundari Stotram)

M Prajapat
0
दशमयी बाला त्रिपुर सुन्दरी स्तोत्रम् (Dashmayi Bala Tripur Sundari Stotram)
दशमयी बाला त्रिपुर सुन्दरी स्तोत्रम्

दशमयीबालात्रिपुरसुन्दरीस्तोत्रम् - यह स्तोत्र दस महाविद्याओं के रूप में भगवती बाला की स्तुति करता है, जिन्हें शिव ने दस रूपों में प्रकट किया है।

दशमयी बाला त्रिपुर सुन्दरी स्तोत्रम् (Dashmayi Bala Tripur Sundari Stotram)

॥ दशमयी बालात्रिपुरसुन्दरीस्तोत्रम् ॥

श्रीकाली बगलामुखी च ललिता धूमावती भैरवी
मातङ्गी भुवनेश्वरी च कमला श्रीवज्रवैरोचनी।
तारा पूर्वमहापदेन कथिता विद्या स्वयं शम्भुना
लीलारूपमयी च देशदशधा बाला तु मां पातु सा॥१॥

श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां
बिम्बोष्ठीं बलशत्रुवन्दितपदां बालार्ककोटिप्रभाम्।
त्रासत्राणकृपाणमुण्डदधतीं भक्ताय दानोद्यतां
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम्॥२॥

ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां
हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम् ।
पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां
वन्दे सङ्कटनाशिनीं भगवतीं बालां च बगलामुखीम्॥३॥

बालार्कश्रुतिभस्करां त्रिनयनां मन्दस्मितां सन्मुखीं
वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे ।
पारावारविहारिणीं परमयीं पद्मासने संस्थितां
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम्॥४॥

दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां
क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम्।
देवीं शूर्पकरां मलीनवसनां तां पिप्पलादार्चिताम् ।
बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम्॥५॥

उद्यत्कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां
मालापुस्तकपाशमङ्कुशधरां दैत्येन्द्रमुण्डस्रजाम् ।
पीनोत्तुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां
बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि॥६॥

वीणावादनतत्परां त्रिनयनां मन्दस्मितां सन्मुखीं
वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे ।
पारापारविहारिणीं परमयीं ब्रह्मासने संस्थितां
वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम्॥७॥

उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां
हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम् ।
चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां
वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे॥८॥

देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां
विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम् ।
प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा
बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीम्भजे चेन्दिराम्॥९॥

सच्छिन्नां स्वशिरोविकीर्णकुटिलां वामे करे विभ्रतीं
तृप्तास्यस्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम् ।
सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं
बालां सङ्कटनाशिनीं भगवतीं श्रीछिन्नमस्तां भजे॥१०॥

उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां
कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम् ।
कण्ठे मुण्डस्रजां करालवदनां कञ्जासने संस्थितां
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम्॥११॥

मुखे श्रीमातङ्गी तदनु किल तारा च नयने
तदन्तरगा काली भृकुटिसदने भैरवि परा ।
कटौ छिन्ना धूमावती जय कुचेन्दौ कमलजा
पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी॥१२॥

विराजन् मन्दारद्रुमकुसुमहारस्तनतटी
परित्रासत्राणास्फटिकगुटिकापुस्तकवरा ।
गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा
सदापीलाहाला जयति किल बाला दशमयी॥१३॥

॥ इति श्रीमेरुतन्त्रे दशमयीबालात्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् ॥

बाला त्रिपुर सुन्दरी स्तोत्रम् (Bala Tripur Sundari Stotram)


एक टिप्पणी भेजें

0टिप्पणियाँ

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!