श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली | Shri Jayendra Saraswathi Ashtottara Shatanamavali 

श्री जयेन्द्र सरस्वती अष्टोत्तर शतनामावली | Shri Jayendra Saraswathi Ashtottara Shatanamavali

ॐ महादेव महीदेवतनूजाय नमो नमः ।
ॐ तमोऽपहग्रामरत्न सम्भूताय नमो नमः ।
ॐ सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः ।
ॐ सुब्रह्मण्याभिधानीतकौमाराय नमो नमः ।
ॐ मध्यार्जुनगजारण्याधीतवेदाय ते नमः ।
ॐ जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः ।
ॐ स्ववृत्तप्रणीताशेषाध्यापकाय नमो नमः ।
ॐ तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः । 
ॐ गुर्वाज्ञापालनरतपितृदत्ताय ते नमः ।
ॐ जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः ।
ॐ जयाख्यया स्वगुरुणा दीक्षिताय नमः ।
ॐ ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः । 
ॐ सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः ।
ॐ काषायवासस्संवीतशरीराय नमो नमः ।
ॐ वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः ।
ॐ नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः ।
ॐ लीलया वामहस्ताग्रधृतदण्डाय ते नमः ।
ॐ भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः ।
ॐ जम्बीरतुलसीमालाभूषिताय नमो नमः ।
ॐ कामकोटिमहापीठाधीश्वराय नमो नमः ।
ॐ सुवृत्तनृहृदाकाशनिवासाय नमो नमः । 
ॐ पादानतजनक्षेमसाधकाय नमो नमः ।
ॐ ज्ञानदानोक्तमधुरभाषणाय नमो नमः ।
ॐ गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः । 
ॐ जगद्गुरुवरिष्ठाय महते महसे नमः ।
ॐ भारतीयसदाचारपरित्रात्रे नमो नमः ।  
ॐ मर्यादोल्लङ्घिजनतासुदूराय नमो नमः ।
ॐ सर्वत्र समभावाप्तसौहृदाय नमो नमः ।
ॐ वीक्षाविवशिताशेषभावुकाय नमो नमः । 
ॐ श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः ।
ॐ कारुण्यपूरपूर्णान्तःकरणाय नमो नमः ।
ॐ श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः । 
ॐ पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः ।
ॐ त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः ।
ॐ कामाक्षीध्यानसंलीनमानसाय नमो नमः । 
ॐ सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः ।
ॐ परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः ।
ॐ रत्नभूषितनृत्येशहस्तपादाय ते नमः ।
ॐ वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः ।
ॐ काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः । 
ॐ कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः ।
ॐ कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः ।
ॐ कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः ।
ॐ राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः । 
ॐ गोशालानिर्मितिकृतगोरक्षाय नमो नमः ।
ॐ तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः ।
ॐ सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः ।
ॐ वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः । 
ॐ देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः ।
ॐ भारतीयकलाचारपोषकाय नमो नमः ।
ॐ स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः ।
ॐ युक्त्या हरिहराभेददर्शयित्रे नमो नमः ।
ॐ स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः ।
ॐ परधाम पराकाशलीनचित्ताय ते नमः ।
ॐ अनारततपस्याप्तदिव्यशोभाय ते नमः ।
ॐ शमादिषड्गुणयत स्वचित्ताय नमो नमः । 
ॐ समस्तभक्तजनतारक्षकाय नमो नमः ।
ॐ स्वशरीरप्रभाधूतहेमभासे नमो नमः ।
ॐ अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः ।
ॐ विभूतिविलसच्छुभ्रललाटाय नमो नमः ।
ॐ परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः । 
ॐ आर्तार्तिश्रवणापोहरतचित्ताय ते नमः ।
ॐ ग्रामीणजनतावृत्तिकल्पकाय नमो नमः । 
ॐ जनकल्याणरचनाचतुराय नमो नमः ।
ॐ जनजागरणासक्तिदायकाय नमो नमः ।
ॐ शङ्करोपज्ञसुपथसञ्चाराय नमो नमः । 
ॐ अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः ।
ॐ प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः ।
ॐ गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः । 
ॐ भगवत्पूज्यपादानामपराकृतये नमः ।
ॐ स्वपादयात्रया पूतभारताय नमो नमः ।
ॐ नेपालभूपमहितपदाब्जाय नमो नमः ।
ॐ चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः । 
ॐ यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः ।
ॐ मधुराभाषणप्रीतस्वाश्रिताय नमो नमः ।
ॐ सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः । 
ॐ चित्रीयमाणजनतासन्दृष्टाय नमो नमः ।
ॐ शरणागतदीनार्तपरित्रात्रे नमो नमः ।
ॐ सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः ।
ॐ दुरवस्थितहृत्तापशामकाय नमो नमः ।
ॐ दुर्योज्यविमतव्रातसमन्वयकृते नमः ।
ॐ निरस्तालस्यमोहाशाविक्षेपाय नमो नमः ।
ॐ अनुगन्तृदुरासाद्यपदवेगाय ते नमः ।
ॐ अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः ।
ॐ सदा हसन्मुखाब्जानीताशेषशुचे नमः । 
ॐ नवषष्टितमाचार्यशङ्कराय नमो नमः ।
ॐ विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः ।
ॐ जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः ।
ॐ वसिष्ठधौम्यसदृशदेशिकाय नमो नमः ।
ॐ असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः । 
ॐ श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः ।
ॐ गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः ।
ॐ गुरुवर्यकृपालब्धसमभावाय ते नमः ।
ॐ योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः । 
ॐ वयोवृद्धानाथजनाश्रयदाय नमो नमः ।
ॐ अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः ।
ॐ स्वगुरूपज्ञया विश्वविद्यालयकृते नमः ।
ॐ विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः । 
ॐ विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः ।
ॐ देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः । 
ॐ कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः ।
ॐ कैलासमानससरोयात्रापूतहृदे नमः ।
ॐ असमे बालसप्ताद्रिनाथालयकृते नमः ।
ॐ शिष्टवेदाध्यापकानां मानयित्रे नमो नमः ।
ॐ महारुद्रातिरुद्रादि तोषितेशाय ते नमः । 
ॐ असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः ।
ॐ द्रविडागमगातॄणां ख्यापयित्रे नमो नमः ।
ॐ शिष्टशङ्करविजयस्वर्च्यमानपदे नमः ।

Comments